Skip to main content

Sahuri

Shri Vishvapriya Vilaasa Prabandha (Moola)

हरि सर्वोत्तम । वायु जीवोत्तम | श्री गुरुभ्यो नमः

श्रीमद्विश्वप्रियविलासप्रबन्धः

प्रथमो विलासः

वन्दे वन्दारु-मन्दारमिन्दिराब्जमधुव्रतम् ।
श्रीविश्वप्रिययोगीन्द्रहृदब्जनिलयं हरिम् ॥ १ ॥

केनांचित् भक्तिरीशे प्रभवति नहि ते शास्त्रजज्ञानपूर्णाः
केऽपि स्युर्मूलटीकाप्रवचननिपुणास्तेऽपि नाचारशीलाः ।
यद्येवं नोपवासाद्यतिशयित-महाक्लेशभाजः तमेतैः
सर्वैः पूर्णं गुणौधैः गुरुवरममलं नौमि विश्वप्रियार्यम् ॥ २ ॥

विश्वप्रियाख्य-योगीन्द्रचरितं विश्वपूजितम् ।
विशुद्धये वाक्तनुमनसां वच्मि शक्तितः ॥ ३ ॥

आसीद्धि शुद्धवंशीयः स्थूलमुक्ताफलोपमः ।
कृष्णार्यनामकः तेपे तपस्तौलवमण्डले ॥ ४ ॥

मूर्तिमांस्तपसो राशिरिव तस्याभवत् सुतः ।
ववृधे स कुमाराभः कुमारस्तेजसा ज्वलन् ॥ ५ ॥

उपनीतो द्विजेन्द्रेण वेदानधिजगौ वटुः ।
श्रीवादिराजसद्वंशोदधिराकानिशाकरः ॥ ६ ॥

विश्वाधीश्वरमौनीन्द्रो वटुमेनमचक्षत ।
अयं खलु क्षणोपेतो विद्यासिंहासनोचितः ॥ ७ ॥

इति निश्चित्य स वटुं पितरं समयाचत ।
धन्यतामात्मनो मत्वा वटुं स गुरवे ददौ ॥ ८ ॥

स्वपाणिनीरजोद्भूत-विश्वेशमुनिहस्ततः ।
न्यासाश्रमं दापयित्वा स्वान्तिके तं चकार सः ॥ ९ ॥

विश्वप्रियेति स्वगुरुदत्तं नामार्थवन्मुनिः ।
कुर्वन् स वृद्धवशगः शास्त्रं मारुतमध्यगात् ॥ १० ॥

सौधार्थकथनव्यग्रामस्य वाग्धोरणीं बुधाः ।
जयवेङ्कटाचार्यप्रमुखाः प्रशशंसुः समागताः ॥ ११ ॥

गुरुद्वययुतः कृष्णं पूजयन् स बभौ किल ।
शुक्राङ्गिरस-संयुक्तो बालचन्द्र इवोदितः ॥ १२ ॥

ज्ञानभक्तिविरक्त्यादीन् दृष्ट्वा तदरयोऽपि हि ।
प्रतिमानं प्रकुर्वन्ति प्रह्लादममरा यथा ॥ १३ ॥

तदा कोच्चीमहीपालः सर्वतन्त्रविशारदः ।
भेजे पूर्णत्रयीनाथं मोक्षमार्गविवित्सया ॥ १४ ॥

तद्भक्तिसारेण सन्तुष्टो हरिः स्वप्नेऽवदत् प्रभुम् ।
वादिराजोक्तपद्धत्या भजन्मां मुक्तिमेष्यसि ॥ १५ ॥

इति स्वाप्नवचः श्रुत्वा भूपालो विस्मितो भृशम् ।
भटान् संप्रेषयामास गुरुराजमठं प्रति ॥ १६ ॥

विश्वेशमुनिरागत्य विष्णुदीक्षाप्रवर्तकम् ।
भूपं चकार सोऽप्यासीन्मध्व-सिद्धान्त-पारगः ॥ १७ ॥  (1. Aśrama guru of Visvapriya Tirtha (d. 1792))

श्रीमध्वमुनिसिद्धान्त-सिद्धदिव्यार्थदर्शकौ ।
ततो विष्णुपदं यातौ पुष्पवन्तौ यथा गुरू ॥ १८ ॥

अथ देशिकवर्योऽसौ विरक्ति-परभूषणः ।
अन्नं सुदुस्त्यजं त्यक्त्वा लाजमुष्टिं ग्रसन् बभौ ॥ १९ ॥

भुवनेन्द्रस्वामिमुखा दृष्ट्वा वैराग्यमीदृशम् ।
श्रीविष्णुतीर्थसद्वंशमणौ युक्तममन्वत ॥ २० ॥  (2. Head of the Sumatindra Matha (1774-1799))

तुरगास्यपदद्वन्द्व-सुभक्तिभरमुद्वहन् ।
संस्थानभारं गुरुराट्पदे स्थापयितुं मुनिः ॥ २१ ॥

सोदापुरं समगमद् गुरूपासा हि सिद्धिदा ।
पञ्चवृन्दावनाभ्याशे देववर्यनिषेविते ॥ २२ ॥

नक्तंदिवं पपाठासौ समीरसमयं गुरुः ।
तीर्थक्षेत्रादिकं गन्तुं गुरुराजस्य सन्निधौ ॥ २३ ॥

प्रणमत्यस्य शिरसि पेतुर्मन्त्राक्षताः किल ।
देवोत्तमहरेः पेटीं धृत्वा शिरसि सद्गुरुः ॥ २४ ॥

तेवनेन जगामासौ विभवं हयेऽर्पयन् ।
तीर्थानि क्षेत्रमुख्यानि गत्वा तत्रत्यसज्जनान् ॥ २५ ॥

अनुगृह्याययौ द्रष्टुं रजतासनगं हरिम् ।
मार्गेऽरण्ये क्वचिद्वासं चक्रे क्षणमपि धीरधीः ॥ २६ ॥  (3. Udupi)

श्रुत्वोदन्तं प्रभुवरः तं देशं रक्षितुं ययौ ।
यत्र रात्रौ गुरुवरः संस्थानसहितोऽवसत् ॥ २७ ॥

तत्र सेनापतिर्व्यूह्य सेनां द्वारि व्यवस्थितः ।
तेन रुद्धो दण्डनेता स्वग्राममगमन्निशि ॥ २८ ॥

ततः प्रातः समागत्य गुरुं नत्वाऽब्रवीद्वचः ।
क्व सेनेति गुरुस्तस्य स्मित्युत्तरमातनोत् ॥ २९ ॥

तदारभ्य जनाः सर्वे भूतनाथो गणैर्वृतः ।
एतत्समीपे वसति रक्षन्निति हि मेनिरे ॥ ३० ॥  (4. Bhūtarāja (attendant of Sri Vadiraja).)

क्वचित् दुर्गान्तरे रात्रावुवास गुरुपुङ्गवः ।
संक्षाल्य पात्राण्यागन्तुं जना दुर्गाद्वहिर्गताः ॥ ३१ ॥

दुर्गद्वारि पिनद्धायां चुक्रुशुर्भयपीडिताः ।
तदा कवाटं निर्भिन्नं दृष्ट्वा सर्वेऽपि विस्मिताः ॥ ३२ ॥

कंचिद्यामं जिगमिषुः पथ्याप्तं द्विजपुङ्गवम् ।
प्रत्यूचेऽन्न भवेच्चित्तमिति तं ग्राममाप सः ॥ ३३ ॥

तत्र द्विजोऽतिधनिकः क्षणार्थं समयाचत ।
भिक्षावसाने यतिराट् ग्रन्थलेखनतत्परः ॥ ३४ ॥

अभूत्तदा स धनिको पादमूले दधत्कुधीः ।
उपविश्याब्रवीत् भूतं क्व नारायणसंज्ञितम् ॥ ३५ ॥

इत्युच्चैः प्रजहासाथ गुरुः क्रोधविमूर्छितः ।
रात्रिपूजामकृत्वैव वेश्मान्तरमगात्ततः ॥ ३६ ॥

तदैव धनिनो गेहे कृष्णवर्मा विवेश ह ।
कुटुम्बिनस्तस्य वध्वो गर्भिण्यो भृशपीडिताः ॥ ३७ ॥

उदरव्यथया रावैः तारैः समभिचुक्रुशुः ।
तदा धनी भृशं तप्तो गुरुं शरणमेयिवान् ॥ ३८ ॥

तदा दयालुर्यतिराड् भूतराजं सुकोपितम् ।
शमयामास संप्रार्थ्य स्त्रियः स्वस्था बभूविरे ॥ ३९ ॥

एवं तीर्थाटनं कृत्वा पर्याये समुपस्थिते ।
वराहतुरगास्येतः प्राविशद्रजतासनम् ॥ ४० ॥  (5. The Paryaya festival at the Krishna Matha of Udupi.)

श्रीविश्वप्रिययोगिवर्यचरणप्रोत्फुल्लपङ्केरुहा-
सक्ताः सज्जनचञ्चरीकनिवहाः मध्वागमाह्लादिनः ।
त्रय्यन्तध्वनिधिक्कृतेतररवाः पर्यायदिंव्योत्सवं
श्रीमध्वप्रिय-हंसवर्यरचितं द्रष्टुं समभ्याययुः ॥ ४१ ॥

इति श्रीमद्विश्वप्रियविलासप्रबन्धे प्रथमो विलासः समाप्तः।

द्वितीयो विलासः

यथा धर्मसुतो राजा राजसूये महाक्रतौ ।
कृष्णं संपूजयामास तथायं मुनिपुङ्गवः ॥ १ ॥

द्रव्याणि दत्त्वा विद्वद्भ्यः सदा श्रीकृष्णमन्दिरे ।
सर्वमूलग्रन्थरत्नपारयणमकारयत् ॥ २ ॥

अन्येषां यतिवर्याणां काश्मीराम्बरधारिणाम् ।
सर्वातिशायिनीं पूजां त्रयीपारायणं तथा ।
दृष्ट्वा सच्छास्त्रपाठं च नेच्छन्मुक्तिं जना भुवि ॥ ३ ॥

तदा कर्नाटकाधीशः कृष्णराज इति श्रुतम् ।
युतोऽमात्यैः कतिपयैः सेनया चतुरङ्गया ॥ ४ ॥  (6. Maharaja of Mysore (Sri Krishnaraja Odeyar).)

गुरुशेखरपर्याये कृष्णं द्रष्टुं समभ्यगात् ।
तदा समाजः सुमहानभूत् श्रीकृष्णमन्दिरे ॥ ५ ॥

सभायां राजसिंहस्य कौपीनवरभूषणः ।
यतिराट् शुशुभे तत्र न्यासिनां भूषणं हि तत् ॥ ६ ॥

राजस्त्रियः सुन्दराङ्गं कृष्णं दृष्ट्वातिभक्तितः ।
हारान् मुक्त्वा मणियुतान् भूषणानि च सर्वशः ॥ ७ ॥

उन्मुच्य निदधुः कृष्णसन्निधौ यतिशेखरः ॥ ८ ॥

तानि सर्वाण्युपादाय कृष्णराजं बहिर्गतम् ।
उपासर्पत यत्स्त्रीणां स्वातंत्र्यं शास्त्रनिन्दितम् ॥ ९ ॥

स राजशेखरो हृष्टः स्त्रीयं हारं महाधनम् ।
उन्मुच्य प्रददौ सद्यो वदान्यः कः परस्ततः ॥ १० ॥

तैर्भूषणैरलञ्चक्रे गुरुर्यादवनन्दनम् ।
गुणपूर्णं सुराग्रण्यं सर्वभूषणभूषणम् ॥ ११ ॥

विभूषितं हरिं दृष्ट्वा राजा पूर्णमनोरथः ।
गुरुं रहः समानीय प्रोचे स जगतीपतिः ॥ १२ ॥

ब्रवीतु देशिकोत्तंसः का सेवा कृष्णतुष्टिदा ।
इति पृष्टो गुरुः प्राह अन्नदानं हरेः प्रियम् ॥ १३ ॥

नित्यं कुर्वन्नदानस्य साहाय्यमिति चोदितः ।
स्वसंस्थानात् कृष्णपूजावृत्तिमाज्ञापयत् प्रभुः ॥ १४ ॥

तत्क्लृप्तवृत्त्या कृष्णस्य पूजाद्यापि निराकुला ।
एवं राजाधिराजस्य बहुमानं गुरौ परम् ॥ १५ ॥

वैभवं वीक्ष्य दुष्टानां हृद्यस्याङ्कुरोऽजनि ।
तेन दोषेण वणिजो निरुद्धा बाणकर्मणि ॥ १६ ॥

रथोत्सवस्य समये श्रुत्वा स यतिपुङ्गवः ।
सांयाक्षिकान् समानीय कर्पूरनिचयं गुरुः ॥ १७ ॥  (7. The car festival is even now celebrated with colourful fireworks in the Car street at Udupi.)

बहुसाहस्ररूप्याप्यं अर्पयत् पुरतो हरेः ।
तत्काले पिशुनाः केचित् सुब्रह्मण्ययतीश्वरम् ॥ १८ ॥

प्राबोधयन्नथ वाटव्यासदेवः प्रगृह्यताम् ।
सोदामठीयैः श्रीकृष्णपूजा नो दीयते खलु ॥ १९ ॥

श्रीविष्णुतीर्थवंशीया यूयं तेऽपि तथाविधाः ।
इति प्रेरितकर्मदिकिंवदन्तीं तथाविधाम् ॥ २० ॥

श्रुत्वा गुरुः व्यासदेवं पर्याये समतोषयत् ।
पूजामन्त्रजपैस्तुष्टो मध्वनाथः त्रयीपतिः ॥ २१ ॥

समाप्य यतिशेखरो यदुपतेर्महं सादरं
सुधाशनसमर्पितं हरिपदाब्जभृङ्गः सुधीः ।
सुमध्वमुनिसेवितं महितमध्यवाटस्थितं
जगाम हरिमर्चितुं पुरुटसंपुटान्तर्गतम् ॥ २२ ॥  (8. Madhyavāta – Naddantādi Matha.)

सुमठमधिवसन् गुरुप्रबर्हैः स्तुतिनतिमन्त्रजपैः प्रसाद्य देवम् ।
गुरुरथ परिगृह्य गन्तुमैच्छत् सपदि सुधाधवलो बभूव देवः ॥ २३ ॥

जम्बूफलसमानाभं हरिं धवलतां गतम् ।
संजातशङ्को यतिराट् निदध्यौ किमभूदिदम् ॥ २४ ॥

इति तूष्णीं व्यासदेवं स जनान् समदर्शयत् ।
तत्राशीतिवयोवृद्धो दृष्ट्वा देवं तथाविधम् ॥ २५ ॥

भक्त्या सुसमुद्भूतहर्षात् विकसिताननः ।
जगाद गुरुणा पृष्टः प्रसादसमये पुरा ॥ २६ ॥

एवंविधो हरिर्दृष्टः श्रीमद्भाग्यं तु किं ब्रुवे ।
एष प्रसादविज्ञातहरिभावो हरिप्रियः ॥ २७ ॥

मध्ये संस्थाप्य वेदेशं तुरगास्यवराहयोः ।
पूजां नवविधां चक्रे पायसादीन् समर्पयन् ॥ २८ ॥

जगाम तीर्थयात्रायै मध्ये मार्गं च हंसराट् ।
सत्यधर्म इति ख्यातो वादिराड्भक्तिपूरितः ॥ २९ ॥  (9. Head of the Uttarādi Mutt (1797-1830).)

गुरुं स्वमठमानाय्य व्यासपूजामकारयत् ।
महिशूरपुरं प्राप्य राज्ञा संपूजितोऽभवत् ॥ ३० ॥

ततो बलमुरिग्रामे द्वादश्यां सह्यजाप्लुतः ।
संपूज्य देवं पीठस्थः तीर्थं दातुं प्रचक्रमे ॥ ३१ ॥

तदा रामाचार्यनामा स्नातो नद्यां ददर्श ह ।
मार्ताण्डमण्डलद्वन्द्वं तदा स गुरुपुङ्गवः ।
तमाहूय च पप्रच्छ किं दृष्टं सह्यजातटे ॥ ३२ ॥

इति सोऽपि यथाचष्टे उक्त्वोच्चैर्गुरुमब्रवीत् ।
किं त्वं पीठं समध्यास्से पश्य तेजोमयं गुरुम् ॥ ३३ ॥

इत्युक्तः सहसाऽपश्यत् पश्चाद्भागे तथाविधम् ।
ज्ञात्वा श्रीवादिराजस्य सान्निध्यं पीठमत्यजत् ॥ ३४ ॥

ततः प्रभृति योगीन्द्रो भूमावुपविवेश ह ।
ततो घट्टादवतरन् शिरोचलमुपागमत् ॥ ३५ ॥

ग्रन्थलेखनकाले तु बुभुक्षुं रामनामकम् ।
कदलीफलोच्चयं दत्त्वा भक्षयेत्याह योगिराट् ।
सन्निधानं विहाय अद्मीत्युक्त्वाऽन्यत्र गतो द्विजः ॥ ३६ ॥

सर्वत्र स गुरुं दृष्ट्वा पुनः सन्निधिमागतः ।
कथं भुञ्जे यतिवर दृश्यसे त्वं हि सर्वतः ॥ ३७ ॥

इत्यब्रवीत्तत्रैव स्थित्वा भुङ्क्ष्वेति चोदितः ।
सविस्मयस्तथा चक्रे किं चित्रं हरिकिङ्करे ॥ ३८ ॥

ततोऽवरुह्य गुरुराट् गज्जलदीमुपागमत् ॥ ३९ ॥

तत्र मायानदीतीरे संगृह्य हरिपेटिकाम् ।
उपाविशद् घोररूपा रजनी चाभवत्तदा ॥ ४० ॥

तत्र सत्राधिपो विप्रः तत्कनिष्ठोऽपि कश्चन ।
विज्ञापयामासतुस्तौ नेह स्थेयं मुनीश्वर ॥
द्वीपिभल्लूकनिबिडं इत्युक्तः प्राह मुनिः ।
भवन्तौ गच्छतां शीघ्रमागमिष्ये जपन्नहम् ॥ ४१ ॥

तदा तौ किञ्चिदागत्य श्रितौ कञ्चिन्महाद्रुमम् ।
यामरात्रौ व्यतीतायां क्ष्माभृच्छिखरदेशतः ॥ ४२ ॥

सुमहान् ददृशे दीपः तत्पश्चात् पादुकापदः ।
समागच्छत् हंसवर्यः तेजोराशिरिव ज्वलन् ॥ ४३ ॥

स्वसन्निधिं समायान्तं दृष्ट्वा स मुनिपुङ्गवः ।
साष्टाङ्गं प्रणनामासौ भक्तिनभ्रशिरोधरः ।
गैर्वाण्या भाषया चोभौ संवादं बहु चक्रतुः ॥ ४४ ॥

दृष्ट्वा चात्यद्भुतं रूपं श्रुत्वा संवादमद्भुतम् ।
आश्चर्यपूरजठरे तौ विप्रौ निममज्जतुः ॥ ४५ ॥

एवं चित्रचरित्रोऽसौ मुनिरन्नविजितः ।
लाजभक्षः पादचारी भूशायी व्रतिपुङ्गवः ॥ ४६ ॥

सेतौ स्नात्वा रङ्गनाथं दृष्ट्वा वेङ्कटगं हरिम् ।
क्रमेण सञ्चरन् योगी श्रीमत्सोदापुरीमगात् ॥ ४७ ॥

त्रिविक्रमरथोत्सवं बहुजनान्नदानैः समं
सुधूपवरदीपकैः परिसमाप्य योगीश्वरः ।
हयाननमहोदधाववभृथं नवं कारयन्
बभूव मुनिपुङ्गवो हरिकृपाकटाक्षेक्षितः ॥ ४८ ॥

इति श्रीमद्विश्वप्रियविलासप्रबन्धे द्वितीयो विलासः समाप्तः।

तृतीयो विलासः

तीर्थपल्लीमठे तिष्ठन् भुवनेन्द्रयतीश्वरः ।
ब्राह्मणाराधनं चक्रे गुरुपुण्यदिने किल ॥ १ ॥

ब्राह्मणेषु निमज्जत्सु तुङ्गभद्रानदीजले ।
तत्र कश्चन विप्रेन्द्रो नदीमध्यशिलातले ॥ २ ॥

दृष्ट्वा विश्वप्रियगुरुं प्रणनामातिभक्तितः ।
सङ्घे सङ्घे द्विजेन्द्राणां किंवदन्ती तदाभवत् ॥ ३ ॥

धन्यो विश्वप्रियगुरुः अत्रागत्याद्य तिष्ठति ।
इति श्रुत्वा भुवनराट् प्रेषयामास किङ्करान् ॥ ४ ॥

तदा सोदामठं प्राप्य तत्रत्यान् प्रविचार्य ते ।
सोदापुरस्थं विज्ञाय विश्वप्रियगुरुं पुनः ॥ ५ ॥

अवदन् गुरोः सोऽपि निमग्नो विस्मयाम्बुधौ ।
कदाचित् भुवनेन्द्रस्य गुरोः पार्श्वमुपागमत् ॥ ६ ॥

यतीन्द्रोऽसौ तदा तत्र कृष्णाचार्य इति श्रुतः ।
हरपनल्लीग्रामवासी गुरुपादमधिक्षिपन् ॥ ७ ॥

अशृण्वन् तत्रोक्तमर्थमुद्घोषमकरोद्विजः ।
श्रुत्वा उच्यतामिति गुरुः भ्रुकुटीकुटिलाननः ॥ ८ ॥

स्तम्भयामास तत्कालाद् वाग्धाटीरहितोऽभवत् ।
तदा कोच्चीमहीपालो विद्वद्राजशिरोमणिः ॥ ९ ॥

वादिमत्तेभपञ्चास्यो ग्रन्थकृत् भगवत्प्रियः ।
स्वरूपसुखभोगाय यदा सन्दिग्धमानसः ॥ १० ॥

पूर्णवेदपतिः स्वप्ने नर्तनं कुरु इति प्रभुम् ।
प्रोवाच, नृत्तसमये परमानन्दनिर्भरः ॥ ११ ॥

अनुभूतस्तदा राज्ञा राजा सञ्छिन्नसंशयः ।
राज्ञा सम्प्रार्थितस्तेन तं देशमगमद् गुरुः ॥ १२ ॥

स राजा गुरुराजं तं विद्वद्राजशिरोमणिः ।
भक्त्या सम्पूजयामास यादवेशं विदेहवत् ॥ १३ ॥

सच्छास्त्रस्थापकं भूपं विष्णुदीक्षाप्रवर्तकम् ।
वीक्ष्यानुगृह्णन् शिष्येण मुदमाप यतीश्वरः ॥ १४ ॥

क्ष्मापतेः सहवासेन जनास्तद्देशवासिनः ।
भगवद्भक्तिभरिताः सत्सङ्गो मुक्तिपद्धतिः ॥ १५ ॥

तद्राजवर्यपूजायै भगवत्प्रतिमां ददौ ।
संस्थानपूजासदृशी पूजारब्धा नृपालये ॥ १६ ॥

पूर्णत्रयीमठे तत्र तुरङ्गवदनं हरिम् ।
संस्थाप्य प्रययौ द्रष्टुं वादिराजं जगद्गुरुम् ॥ १७ ॥

अण्णव्याचार्यवर्यस्य बहुकालादपुत्रिणः ।
पुत्रो बभूव तच्चित्रं गुरुवर्यप्रसादतः ॥ १८ ॥

आख्यानोक्तसल्लिङ्गः व्यासानयनपूर्वकैः ।
निरन्नत्वव्रतमुखैरयं वृन्दावनार्यकः ॥ १९ ॥

इति व्यजानन् आमोदो मृगनाभेरवारणः ।
तदा ज्ञानवयोवृद्धः महीपालविकर्तनः ॥ २० ॥

निष्क्रम्य ब्रह्मरन्ध्रेण विष्णोः पादमुपेयिवान् ।
तदनन्तरजो राजा रामवर्मेति विश्रुतः ॥ २१ ॥

गुरुसन्दर्शनाकांक्षी प्रेषयामास किङ्करान् ।
आजगाम स योगीन्द्रो वत्सं गौरिव वत्सला ॥ २२ ॥

बहिष्कृतो यदा राज्ञा तदा झञ्झानिलो महान् ।
पथि देवालयं प्राप्य ग्रामे कुक्कुटपञ्जरे ॥ २३ ॥

प्रादुर्भूतो देवगृहप्रासादाश्वत्थपादपान् ।
उन्मूल्य प्राक्षिपत् तोये तटाके वीक्ष्य तं नृपः ॥ २४ ॥

योगीन्द्रं पूजयामास मग्नो विस्मयवारिधौ ।
एवं विचित्रचारित्रो मुनी राजानमभ्यगात् ॥ २५ ॥

स राजा सेनया भक्तिभरितो भरतो यथा ।
प्रत्युज्जगाम विभवैः छत्रचामरपूर्वकैः ॥ २६ ॥

समानीय गुरुं राजा मठे समुपवेशयत् ।
कञ्चित्कालमथावात्सीत् शिष्यस्नेहवशो गुरुः ॥ २७ ॥

नालिकेरसहस्रेण क्लृप्ते व्यासाभिषेचने ।
पूर्वरात्रे रामनाम्नः स्वप्ने कश्चिज्जगाद ह ॥ २८ ॥

श्वोभूते व्यासदेवस्य जटा संदृश्यते ध्रुवम् ।
प्रातरूचे स विप्रेन्द्रस्तथा स गुरुसन्निधौ ॥ २९ ॥

अभिषेके सम्प्रवृत्ते तथा राज्ञि समागते ।
जम्बूफलनिभे व्यासे धवला समदृश्यत ॥ ३० ॥

रेखा कर्पूरसदृशी तां दृष्ट्वा मुमुदुर्जनाः ।
अदृष्टपूर्वा सा रेखा दृष्टा तस्मिन्दिने जनैः ॥ ३१ ॥

ईदृशो व्यासदेवस्य प्रसादो गुरुपुङ्गवे ।
दानवारिजनालभ्यः किमु मानुषदेहिभिः ॥ ३२ ॥

कृष्णराजसमाहूतो महीश्वरपुरं गुरुः ।
गत्वोवासार्चितो राज्ञा व्यासाराधनतत्परः ॥ ३३ ॥

ततः श्रीकृष्णदेवस्य पर्याये समुपस्थिते ।
कृष्णव्याससमायोगमसहन्तो मठाधिपाः ।
मिलित्वा लौकिकास्थाने व्यवहारमकुर्वत ॥ ३४ ॥

कृष्णराजं समामन्त्र्य भक्त्या तेन प्रपूजितः ।
तन्निसृष्टेन सैन्येन सहागाद्रजतासनम् ॥ ३५ ॥

विचार्य हूणाधिपतिः व्यासकृष्णसमागमे ।
न विरोध इति ह्याह पर्यायः समजृम्भत ॥ ३६ ॥

यादवेशनिगमेशमेलने देवदुन्दुभिगणा विनेदिरे ।
नर्तनं विदधुरप्सरोगणाः तुष्टुवुः मुनिगणा महोत्सवम् ॥ ३७ ॥

इति श्रीमद्विश्वप्रियविलासप्रबन्धे तृतीयो विलासः समाप्तः।

चतुर्थो विलासः

वासवीसुतसमर्पितं परं कल्किदोरमुखमत्र कश्चन ।
प्रेषितं गुरुवरेण दूषयन् प्राक्षिपत् भुवि यतिः प्रकोपितः ॥ १ ॥

तेन दोषनिवहेन चक्षुषः स्थानमत्यजदमुष्य विश्वकः ।
स्वाप्नपद्यगुरुराजवाक्यसम्मा नतापि किल सिद्धतामगात् ॥ २ ॥

शिष्यभूसुरवरेण कारयन्नग्निहोत्रमुखरेष्टिसन्ततीः ।
कालदोषमथ चिन्तयन् सुधीस्तस्य चाश्रमवरं ददावथ ॥ ३ ॥

विष्णुतीर्थमुनिवंशजस्य तद्युक्तमेव सुखभुक्त्यनन्तरम् ।
अच्युतप्रमितिवंशसिन्धुसच्चन्द्रमा हि रघुवीरनामकः ॥ ४ ॥

आययौ गुरुवरस्य सन्निधिं मध्वतन्त्रपरमार्थलिप्सया ।
शुद्धबुद्धिमथ वीक्ष्य तं मुनिं पाठयन् मुदमवाप योगिराट् ॥ ५ ॥

श्रीवराहमुनिशृङ्गवरेण स्वीयदिव्यसुमनोऽनुगामिना ।
व्यासदेवतुरगास्यपूजनं कारयन् परितुतोष धीरधीः ॥ ६ ॥

तेन साकमथ संदिदक्षया वादिराजचरणारविन्दयोः ।
भीमसेतुमठगेन वर्त्मनाप्याययौ स गुरुराट्पुरं मुनिः ॥ ७ ॥

तत्र संवसति मौनिपुङ्गवे कोऽपि तार्किकशिखामणिद्विजः ।
सौख्यतीर्थवरशास्त्रविचारे कोपितो बहिरगात् प्रविनिन्दन् ॥ ८ ॥

मौनिवर्यगुरुनिन्दकं आरादागतं परिसरे धवलायाः ।
सन्निपात्य वरपाथसि दन्तौ भूतनाथगुरुराट् प्रबभञ्ज ॥ ९ ॥

कोऽपि तत्र धनिकः समुपागात् वारितोऽपि स बबन्ध तुरङ्गम् ।
भूतनाथमथ चम्पकवृक्षे सोऽश्वराडभवदद्रिशिखायाम् ॥ १० ॥

प्रातरेत्य गुरुवर्यनियोगात् सानुसीम्नि तुरगं समवाप्य ।
विस्मितः स जनतायुतो धनी नालिकेरफलभारमर्पयत् ॥ ११ ॥

वादिराजगुरुभक्तजनौघः सम्बभूव मिलितो गुरुपार्श्वे ।
मोदतीर्थगुरुशास्त्रजसारं पातुमेव गुरुवर्यमुखाब्जात् ॥ १२ ॥

पूर्वपक्षनिवहान् प्रखण्डयत्यत्र मायिरचितान् विनोदतः ।
मेनिरे गुरुवरे सुसन्निधिं वादिराजमुनिपस्य सज्जनाः ॥ १३ ॥

पूजयत्यतितरां गुरुवर्ये माधवं कुसुमराशिभिरत्र ।
प्रार्थनाक्षणगलत्कुसुमं तत्प्रार्थकाय स ददौ तदद्भुतम् ॥ १४ ॥

दूरदेशगतभक्तजनौघानुद्धरन् हरिकथाप्रसङ्गतः ।
पेटिकां शिरसि धारयन् कृशोऽप्याययौ स हरिभक्तितुन्दिलः ॥ १५ ॥

तत्र तत्र सुजनानुगृह्णन् उत्तरां गुरुरगात्स सह्यजाम् ।
वेदगर्भकुलमण्डनभूतः शिष्यसङ्घयुत एत्य ननाम ॥ १६ ॥

सेतुमाधव इतीड्यसुनामा मौनिराजमनुणिततत्त्वम् ।
देववर्यसदृशं स विदित्वा मध्वशास्त्रमखिलं प्रपपाठ ॥ १७ ॥

तत्र निर्मलतमे गुरुवर्यो रामदूतमथ भाविसमीरम् ।
ग्रामवर्य उपवेश्य सपर्यावृत्तिमत्र स जनैरकारयत् ॥ १८ ॥

तत्र भक्तनिवहेष्वथ कश्चित् मातृकापठनशक्तिविहीनः ।
भाष्यमेतदमुतः स च शृण्वन् सम्बभूव पठने पटुतावान् ॥ १९ ॥

योगिवर्यगुरुमंह्नितरूप्यं भक्तिपूरितमनाः प्रपूजयन् ।
हर्यनुग्रहवशादृणतोऽसौ पर्यमोचि धनिकेन च केन ॥ २० ॥

तत्र तत्र सुजनानुगृह्णन् मौक्तिकं पुरमगात्स धीरधीः ।
मौनिवर्यमहिमाऽसहिष्णवः केऽपि तत्र सुविरोधमाचरन् ॥ २१ ॥

ग्रन्थकर्षणमुखान् मुखभङ्गान् नन्दितीर्थमुनिशेखरकाले ।
चक्रुरेव कुजनाः खलु तेषां सम्भवेन्निजगतिहीनान्यथा ॥ २२ ॥

एवमेव कुजनाः स्वमतस्थाः चक्रुरत्र गुरुवर्यविरोधम् ।
योग्यतानिगमकं हि बहिष्ठं नैव लिङ्गमिति शास्त्ररहस्यम् ॥ २३ ॥

तत्र संवसति माटमहीपः प्रार्थनां समकरोत् दिदृक्षया ।
शिष्यभूपतिवरार्थनया तद्देशगे समवसच्च चित्पुरे ॥ २४ ॥

तत्र केऽपि गुरुवर्यसकाशं मोदतीर्थगुरुशास्त्रजसारम् ।
श्रोतुमाययुः अहं च तदागां पूर्वपुण्यविभवो हि ममासीत् ॥ २५ ॥

तत्र वत्सरगणान् प्रपाठयन् अस्मदादिशुभशिष्यसङ्घकान् ।
अध्युवास परमादराचितो माटभूपतिलकेन सद्गुरुः ॥ २६ ॥

अल्पमन्नमपि सन्त्यजन् पुनर्लाजपिष्टभुगलं यतिवर्यः ।
वृद्धतामुपगतो हरेर्दिनद्वन्द्वमप्युपवसन् अपाठयत् ॥ २७ ॥

आजगाम रघुवीरसन्मुनिः चित्पुरं निजगुरोर्दिदृक्षया ।
संवसन्पुरवरे हरिगीताभाष्यमद्भुतमसौ प्रपपाठ ॥ २८ ॥

मौनिवर्यविरहातुरो मुनिस्त्वाजगाम सुवराहनामकः ।
शिष्यवर्गसहितो गुरुस्तदा वैशिवं पुरमगान्नृपार्थितः ॥ २९ ॥

सोऽपि भूपतिलकः स्वसेनया छत्रचामरमुखैरुपचारैः ।
स्वानुजन्मसहितोऽभिगम्य तं स्वर्णपुष्पनिवहैरवाकिरत् ॥ ३० ॥

तत्र राजवरभक्तिनिबद्धः वैशिवे पुरवरे समवात्सीत् ।
राजदत्तनवरत्नसुहारैः इन्दिरावरमलं समर्चयन् ॥ ३१ ॥

राजवर्यगुरुवर्यमेलनं द्रष्टुमत्र सुजनाः समाययुः ।
मोदतीर्थवरशास्त्रसुभक्तिः भूपतिर्न सुलभः कलौ किल ॥ ३२ ॥

वादिराजकृतयुक्तिमल्लिकाद्युक्तयुक्तिनिवहान् गुरूदितान् ।
शृण्वतां हृदि ममो नहि तेषां मोदसन्ततिरहो सुजनानाम् ॥ ३३ ॥

माटभूपतिवरोऽथ विरक्तः क्षुल्लकामनिवहात् सुधीरधीः ।
वाजियुक्तरथचामरादिकं द्रव्यजातमखिलं गुरवेऽदात् ॥
यादवेश्वरमहोत्सवहेतोः स प्रगृह्य रजतासनमाप ॥ ३४ ॥

वराहमुनिपूजने कलिबलानिरुद्धे गुरुस्तदा यदुवरार्चनं रहसि कारयन् तेन सः ।
हरेरपि मनोगतं समवलोक्य कर्मन्दिराट् तृतीयमपि योगिनं निजमठेऽकरोत् बालकम् ॥ ३५ ॥

इति श्रीमद्विश्वप्रियविलासप्रबन्धे चतुर्थो विलासः समाप्तः।

पञ्चमो विलासः

पर्यायकाले स वयोगतोऽपि युवेव चक्रे खलु कृष्णपूजाम् ।
न वै पुनर्भक्तिभरानतानां भाराय पूजा नृहरेर्भवित्री ॥ १ ॥

मठं नवं पापविनाशिनीतटे निर्माय वृत्तीरथ तत्र कल्पयन् ।
उत्तप्तचामीकरदिव्यमण्टपे निधाय धोटास्यमपूजयत् सुधीः ॥ २ ॥

तत्काले रविवर्मभूपतिमणिः कोच्चीधरित्रीपतिः ।
आनेतुं मुनिपुङ्गवं भटजनानाज्ञापयत् धीरधीः ।
श्रुत्वा तद्भटभाषितं मुनिवरः श्रीमद्वराहाभिधन्यासि-
श्रेष्ठयुतो जगाम स नृपतिंसद्वादिराजप्रियम् ॥ ३ ॥

शुभगुणगणभारैः शुद्धवैराग्यसारे
गतवति निजदेशं विश्ववन्द्ये यतीन्द्रे ।
नरपतिरथ हृष्टः सेनया राजभूत्या
परिवृत उपयातः स्वं गुरुं सन्ददर्श ॥ ४ ॥

शिविकामधिरोप्य योगिवर्यं धृतचामीकरचामराग्रहस्तः ।
विबभौ यतिराजसन्निधाने नरराजो गुरुसन्निधौ यथेन्द्रः ॥ ५ ॥

योगीन्द्रं निजमन्दिरं स नरराडानीय पीठे शुभे
संवेश्याङ्घियुगं सुपङ्कजनिभं प्रक्षाल्य मूर्ध्न्यपः ।
दधे सर्वजगत्पवित्रममलं सौवर्णपुष्पैरलं
सम्पूज्य प्रममज्ज मोदजलधौ धन्यः स पृथ्वीपतिः ॥ ६ ॥

वादिराजगुरुभक्तजनौघः योगिवर्यपददर्शनकामः ।
आययौ सुनिगमान्तविचारः सम्बभूव मुनिवर्यसकाशे ॥ ७ ॥

सत्सन्निधाने निगमपुरेश प्राज्य-
नृपवरगुरुभक्त्या सन्निरुद्धो यतीन्द्रः ।
हयवदनपदाब्जं पूजयन् शिष्यसङ्घ-
प्रवचननिपुणोऽसावब्दमेकं न्यवात्सीत् ॥ ८ ॥

शुभगुणयुतराज्ञो जन्मनक्षत्रयोगे
बुधजनसमवायः प्राभवल्लोकहृद्यः ।
नरपतिरपि विद्वच्छेकरः श्रोतुकामः
सपदि वचनधाटीं सद्गुरोरा निनाय ॥ ९ ॥

मध्येसभं यतिवरः शुभरत्नपीठे
राजानुमोदित उपाविशदग्र्यकीर्तिः ।
यद्वत् हिमाद्रिशिखरे मृगयूथनाथः
सिंहो दिदृक्षुरखिलं वरहस्तियूथम् ॥ १० ॥

शास्त्रस्य योनिरिति विग्रहमारचय्य
सूत्राशयं बुधवरा जगदुःस्म केचित् ।
तान् सन्निधार्य यतिराडुपचक्रमेऽथ
वक्तुं तदा बुधजनो हिमकोकिलोऽभूत् ॥ ११ ॥

स्फुटमहित-सुवर्णास्यूतमुक्ताफलश्रीः
सुजनसुकृतलभ्या राजभिर्मूर्ध्नि मान्या ।
हृदि बुधजनधार्या दिव्यविश्वप्रियोक्ता
जयति सुगुणपूर्णा भारती हारतीयम् ॥ १२ ॥

प्रोद्यद्वादि-चपेटपाटनपटौ योगीन्द्रवाग्जृम्भणे
प्रोद्भूते भयवेपथु-प्रचलिताः स्विद्यन्मुखाः पण्डिताः ।
नैवोचुः किमपीह चञ्चलहृदो गन्तुं प्रवृत्ता बहिः
सर्वे नेमुरमुं निपत्य भुवि तं सम्मेनिरे वाक्पतिम् ॥ १३ ॥

स्मितयुतवचसा प्रशस्य सर्वान् यतिपतिरादरतः स्तुतः सभायाम् ।
मठमगमदसौ महादिशिष्यैः हयमुखभक्तियुते किमत्र चित्रम् ॥ १४ ॥

राजामात्यं विष्णुभक्तं द्विजाग्र्यं ज्ञात्वा तेन प्रार्थितो भाष्यमस्मै ।
टीकां विना तं च टीकार्थयुक्तं व्याचक्षाणं वीक्ष्य लोका ननन्दुः ॥ १५ ॥

तेनाधितः श्रीहनुमत्प्रतीकं सुसंपुटं भाविसमीरणस्य ।
संस्थापयामास तदीयभक्तिबद्धो हनूमान् किल सन्निधत्ते ॥ १६ ॥

सोदापुरे भाविसमीरणं गुरुं द्रष्टुं प्रवृत्तं गुरुसार्वभौमम् ।
वीक्ष्यैव राजा विरहासहोऽपि दत्त्वा धनं दिव्यविभूषणानि ।
प्रस्थापयामास कथञ्चिदेव सतां प्रसङ्गो हि सुदुस्त्यजः सताम् ॥ १७ ॥

सोदापुरं तत्समवाप्य योगी वराहयोगीशयुतो महात्मा ।
कृतं शुभं सद्‌गुरवेऽर्पयन् सुधीरुवास तीरे हरिपादजायाः ॥ १८ ॥

वराहयोगी स सुधां सुहृद्यामास्वाद्य चास्वाद्य पुनः पुनश्च ।
अतृप्त एव प्रययौ हरेः पदं सुधाशनानां सहवासहृद्यम् ॥ १९ ॥

उद्वह्य पूजाभरमेष नित्यं हरेः प्रसादोऽयमितीक्षमाणः ।
वराहवेदेशहयास्यपूजां प्रार्थ्यां सुरेन्द्रः स चकार योगिराट् ॥ २० ॥

मुक्तिप्रत्यूहाधिक्षपणकरणसत्कुम्भडिम्भं यशोदाडिम्भं
तं द्रष्टुकामः सुखसमयमुनिं प्रौढसद्भाग्यरत्नम् ।
आनम्य प्रौढवादि-द्विरदनिकर-सत्कुम्भसंभेदकारि-
श्रीमद्वादीभराजं मुनिकुलतिलकं सम्प्रतस्थे मुनीन्द्रः ॥ २१ ॥

राजतासनमवाप्य पत्तनं मध्वदासमुनिवर्यमण्डितम् ।
कृष्णपादजलजं विलोक्य चानन्दसारजलधौ ममज्ज सः ॥ २२ ॥

रघुप्रवीरनामा मुनिराजो द्रष्टुमेव मुनिवर्यम् ।
अभ्यायौ त्वरावान् कलिकाले दुर्लभा हि देववराः ॥ २३ ॥

सुचिरं मरुदंशशास्त्रसारं पठनालेखनपाठनाद्युपायैः ।
भुवि सज्जनपात्रके निधाय प्रतिगन्तुं हरिसन्निधिं समैच्छत् ॥ २४ ॥

आषाढे सुबराह्वाजिवदनव्यासान् समभ्यर्चयन् ।
सद्वागीशसुसन्निधौ गुरुवरं बृन्दावनाचार्यकम् ।
शोचति रघुप्रवीरे क्रोशति भुवि सज्जने च सर्वस्मिन् ।
आयति देवविमाने वर्षति पुष्पाणि देवतानिकरे ॥ २५ ॥

अब्दे क्रोधननामके ह्युडुप-सत्क्षेत्रे सुदशम्यां तिथौ ।
विप्रान् ओदनदक्षिणादिभिरसौ सन्तर्प्य कृष्णं स्मरन् ।
पूषेव क्षणदानुवर्तनकृते विष्णोः पदं प्रापतत् ॥ २६ ॥

विश्वाधीश्वरनामको यतिवरो भूयोऽपि शोचन् पुनः ।
सद्वृन्दावनगं विधाय बहुधा दत्त्वा द्विजेभ्यो धनम् ।
स्वाद्वन्नं रघुवीरयोगिसहितः सर्वं गुरोरार्पयत् ॥ २७ ॥

देशीयः खलु कश्चन द्विजवरः स्वप्ने सुसम्बोधितः ।
सोदां सद्‌गुरुमृत्तिकामुपयन् चक्रे सुवृन्दावनम् ।
स्वेन स्थापितमारुतेः स निकटे कण्णप्पनाडी-मठे ।
भक्तप्रीतिवशः स्वयं गुरुवरोऽद्यास्ते च वृन्दावने ॥ २८ ॥  (10. Head of the Bhimana Katte Matha.)

भक्तवत्सलतया गुरुवर्यो मृत्तिकायुतसुसंपुटसंस्थः ।
भक्तवर्यभवनेषु निषण्णोऽदृश्य एव परिरक्षति भक्तान् ॥ २९ ॥

राजतासनपुराधिकृतो यः शिक्षयामि गुरुमित्यधिक्षिपन् ।
वह्नियन्त्रमथ हूणधिक्कृतः स्वे मुखेऽकुरुत तेन ममार ॥ ३० ॥

एवमेव हरिदासवरेऽस्मिन् दुष्टसङ्घविहितोऽप्यपराधः ।
स्वात्मने फलति तद्धि चित्रं मुक्तिगं सुखमतः प्रतिबद्धम् ॥ ३१ ॥

एवंविधानि चरितानि गुरूत्तमस्य
दृष्टानि चाप्तमुखतोऽपि मया श्रुतानि ।
लोकेषु विश्रुततराणि मयोदितानि
लेशन कः प्रभुतरः सकलानि वक्तुम् ॥ ३२ ॥

त्रय्यन्त-पाठनचणा बुधसङ्घमान्याः
वाग्वैखरीः सुललिताः सुखबोधकाश्च ।
भक्तिप्रवाहमिलिता विविधाश्च पूजाः
स्मर्तुलुठन्ति हृदये मम देशिकस्य ॥ ३३ ॥

यद्वाणी विबुधाधिपैश्च शिरसा मान्या यदीयं यशः
स्फारं दिग्वनिताजनश्रवणसत्ताटङ्कभूषायितम् ।
यत्पादाम्बुरुहद्वयी विबुधसन्मूर्ध्ना किरीटायते
श्रीविश्वप्रियतीर्थमस्करिवरः सोऽयं सुरेन्द्रायते ॥ ३४ ॥

इन्द्रत्वं तव मस्करिप्रवर भो युक्तं तु मन्यामहे
वाग्दम्भोलिविपाटित-प्रतिभटप्रोढोक्तिभूभृद्गणात् ।
स्थित्वा विष्णुपदे धरातलजनक्षेमाय जीवातुक-
श्रीतत्त्वामृतवर्षणात् सुमनसामीशत्वतोऽपि प्रभो ॥ ३५ ॥

चिदादिगुणसिन्धवे नतजनावलीबन्धवे
प्रसूनशरशम्भवे हरिपदाब्जवन्दारवे ।
नमो विजितवायवे सुजनकज-सद्भानवे
सुशिष्यमणितन्तवे सुगुरवे सतां बन्धवे ॥ ३६ ॥

श्रीविश्वप्रिययोगिवर्य-करुणापीयूषधारायुजा
रङ्गाचार्यपदेन संविरचितो ग्रन्थोऽयमिष्टप्रदः ।
एनं ये प्रपठन्ति भक्तिभरितास्तेषामभीष्टं ददा-
त्यस्मद्देशिकदिव्यचित्तनिलयः प्रीतः स लक्ष्मीधवः ॥ ३७ ॥

इति श्रीमत्कोच्चीमहीपालसत्सभाधिष्ठितेन शतकोटि-रामाशास्त्रिणः सकाशादधीतन्यायशास्त्रेण श्रीमद्वृन्दावनाचार्य-श्रीसोदावादिराजमठाधीश-श्रीविश्वप्रियतीर्थप्रियशिष्येण, चन्द्रिकाभूषणादि-ग्रन्थकर्ता विद्वद्वर-श्रीकोच्चीरङ्गप्पाचार्येण सङ्ग्रथिता श्रीविश्वप्रियविलासप्रबन्धः समाप्तः।

श्रीपूर्णत्रयीशार्पणमस्तु ॥

/Raghunath Rao/ “Do your Best … and leave the Rest … “

(All mistakes mine – all credit to Gurus and Acharyas )

|| sarvaṁ śrī kṛṣṇārpanamastu ||