हरि सर्वोत्तम । वायु जीवोत्तम | श्री गुरुभ्यो नमः

(Click HERE or scroll down for version with hyphenated word-splitting)
अथ नारयण वर्मोपदेशः
राज उवाच
यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाऽऽततायिनः शत्रून्येन गुप्तोऽजयन्मृधे ॥ २॥
श्री शुक उवाच
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ ३॥
श्री विश्वरूप उवाच
धौतांघ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४॥
नारायणमयं वर्म सन्नह्येद्भय आगते ।
दैवभूतात्मकर्मभ्यो नारायणमयः पुमान् ॥ ५॥
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ।
मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् ॥ ६॥
ॐ नमो नारायणायेति विपर्ययमथापि वा ।
करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ॥ ७॥
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ।
न्यसेद्धृदय ऒङ्कारं विकारमनुमूर्धनि ॥ ८॥
षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् ।
वेकारं नेत्रयोर्युंज्यान्नकारं सर्वसन्धिषु ॥ ९॥
मकारमस्त्रुमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ।
सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत् ॥ १०॥
ॐ विष्णवे नमः
इत्यात्मानं परं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् ।
विद्यातेजस्तपोर्मूतिमिमं मन्त्रमुदाहरेत् ॥ ११॥
ॐ
हरिर्विदध्यान्मम सर्वरक्षां न्यस्तांघ्रिपद्मः पतगेन्द्रपृष्ठे ।
दरारिचर्मासिगदेषुचापपाशान् दधानोऽष्टगुणोऽष्टबाहुः ॥ १२॥
जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावटुवामनोऽव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३॥
दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः ।
विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४॥
रक्षत्वसौ माऽध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः ।
रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजो माम् ॥ १५॥
मामुग्रधन्वा निखिलात् प्रमादान्नारायणः पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६॥
सनत्कुमारोऽवतु कामदेवाद्धयशीर्षो मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात् ॥ १७॥
धन्वन्तरिर्भगवान् पात्वपथ्यात् द्वन्द्वाद्भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादुत तत्कृतान्नो बलो गणात् क्रोधवशादहीन्द्रः ॥ १८॥
द्वैपायनो भगवान् अप्रबोधआत् बुद्धस्तु पाखण्डगणात् प्रमादात् ।
कल्किः कलेः कालमलात् प्रपातु धर्मावनायोरुकृतावतारः ॥ १९॥
मां केशवो गदया प्रातरव्यात् गोविन्द आसङ्गव आत्तवेणुः ।
नारायणः प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २०॥
देवोऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामाऽवतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥ २१॥
श्रीवत्सलक्ष्माऽपररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः ।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते विष्णुः श्रीमान् भगवान् कालमूर्तिः ॥ २२॥
चक्रं युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वायुसखो हुताशः ॥ २३॥
गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
कूष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४॥
त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन् ।
दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥ २५॥
त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि ।
चक्षूंषि चर्मन् शतचन्द्र छादय द्विषामघानां हर पापचक्षुषाम् ॥ २६॥
यन्नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्य भूतेभ्योऽघेभ्य एव च ॥ २७॥
सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।-
प्रयान्तु संक्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ २८॥
गरुडो भगवान् स्तोत्रस्तोमश्छन्दोमयः प्रभुः ।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९॥
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।
बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥ ३०॥
यथा हि भगवानेव वस्तुतः सदसच्च यत् ।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१॥
यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।
भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२॥
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३॥
विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान् नारसिंहः ।
प्रहापयन् लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४॥
विश्वरूप उवाच
मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५॥
एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ ३६॥
न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ ३७॥
इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः ।
योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८॥
तस्योपरि विमानेन गन्धर्वपतिरेकदा ।
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ३९॥
साङ्गनो न्यपतत् सद्यः सविमानो ह्यवाक्शिराः ।
विद्यामिमां धारयतो मृतस्यास्थिविलङ्घनात् ॥ ४०॥
स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ ४१ ॥
य इदं शृणुयात्काले यो धारयति चादृतः ।
तं नमस्यन्ति भूतानि मुच्यते सर्वतोभयात् ॥ ४२॥
श्रीशुक उवाच
एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२॥
। इति श्रीमद्भागवत-महापुराणे षष्ठस्कन्धेऽष्टमेऽध्याये नारायणवर्मः।
================================================
With hyphenated word-splitting:
अथ नारायण-वर्म-उपदेशः
राज उवाच
यया गुप्तः सहस्राक्षः स-वाहान् रिपु-सैनिकान् ।
क्रीडन्-इव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥
भगवन् तत् मम आख्याहि वर्म नारायण-आत्मकम् ।
यथा आततायिनः शत्रून् येन गुप्तः अजयत् मृधे ॥ २॥
श्री-शुक उवाच
वृतः पुरोहितः त्वाष्ट्रः महेन्द्राय अनुपृच्छते ।
नारायण-आख्यं वर्म आह तत् इह एक-मनाः शृणु ॥ ३॥
श्री-विश्वरूप उवाच
धौत-अङ्घ्रि-पाणिः आचम्य स-पवित्रः उदङ्-मुखः ।
कृत-स्व-अङ्ग-कर-न्यासः मन्त्राभ्यां वाक्-यतः शुचिः ॥ ४॥
नारायण-मयं वर्म सन्नह्येत् भय आगते ।
दैव-भूत-आत्म-कर्मभ्यः नारायण-मयः पुमान् ॥ ५॥
पादयोः जानुनोः ऊर्वोः उदरे हृदि अथ उरसि ।
मुखे शिरसि अनुपूर्व्यात् ओङ्कार-आदीनि विन्यसेत् ॥ ६॥
ॐ नमो नारायणाय इति विपर्ययम् अथ अपि वा ।
कर-न्यासं ततः कुर्यात् द्वादशाक्षर-विद्यया ॥ ७॥
प्रणव-आदि यकार-अन्तम् अङ्गुलि-अङ्गुष्ठ-पर्वसु ।
न्यसेत् हृदय ओङ्कारं विकारम् अनु-मूर्धनि ॥ ८॥
षकारं तु भ्रुवोः मध्ये णकारं शिखया न्यसेत् ।
वेकारं नेत्रयोः युञ्ज्यात् नकारं सर्व-सन्धिषु ॥ ९॥
मकारम् अस्त्रम् उद्दिश्य मन्त्र-मूर्तिः भवेत् बुधः ।
स-विसर्गं फड्-अन्तं तत् सर्व-दिक्षु विनिर्दिशेत् ॥ १०॥
ॐ विष्णवे नमः ।
इति आत्मानं परं ध्यायेत् ध्येयं षट्-शक्तिभिः युतम् ।
विद्या-तेजस्-तपो-मूर्तिम् इमं मन्त्रम् उदाहरेत् ॥ ११॥
हरिः विदध्यात् मम सर्व-रक्षां न्यस्त-अङ्घ्रि-पद्मः पतगेन्द्र-पृष्ठे ।
दर-अरि-चर्म-असि-गदा-इषु-चाप-पाशान् दधानः अष्ट-गुणः अष्ट-बाहुः ॥ १२॥
जलेषु मां रक्षतु मत्स्य-मूर्तिः यादः-गणेभ्यः वरुणस्य पाशात् ।
स्थलेषु माया-वटु-वामनः अव्यात् त्रिविक्रमः खे अवतु विश्व-रूपः ॥ १३॥
दुर्गेषु अटव्य्-आजि-मुख-आदिषु प्रभुः पायात् नृसिंहः असुर-यूथप-अरिः ।
विमुञ्चतः यस्य महा-अट्ट-हासं दिशः विनेदुः न्यपतन् च गर्भाः ॥ १४॥
रक्षतु असौ माम् अध्वनि यज्ञ-कल्पः स्व-दंष्ट्रया उन्नीत-धरः वराहः ।
रामः अद्रि-कूटेषु अथ विप्र-वासे स-लक्ष्मणः अव्यात् भरत-अग्रजः माम् ॥ १५॥
माम् उग्र-धन्वा निखिलात् प्रमादात् नारायणः पातु नरः च हासात् ।
दत्तः तु अयोगात् अथ योग-नाथः पायात् गुण-ईशः कपिलः कर्म-बन्धात् ॥ १६॥
सनत्-कुमारः अवतु काम-देवात् हय-शीर्षः माम् पथि देव-हेलनात् ।
देवर्षि-वर्यः पुरुष-अर्चन-अन्तरात् कूर्मः हरिः माम् निरयात् अशेषात् ॥ १७॥
धन्वन्तरिः भगवान् पातु अपथ्यात् द्वन्द्वात् भयात् ऋषभः निर्जित-आत्मा ।
यज्ञः च लोकात् उत तत्-कृतात् नः बलः गणात् क्रोध-वशात् अहीन्द्रः ॥ १८॥
द्वैपायनः भगवान् अप्रबोधात् बुद्धः तु पाखण्ड-गणात् प्रमादात् ।
कल्किः कलेः काल-मलात् प्रपातु धर्म-अवनाय उरु-कृत-अवतारः ॥ १९॥
माम् केशवः गदया प्रातः अव्यात् गोविन्दः आसङ्गवे आत्त-वेणुः ।
नारायणः प्राह्णे उदात्त-शक्तिः मध्यन्दिने विष्णुः अरि-इन्द्र-पाणिः ॥ २०॥
देवः अपराह्णे मधुहा उग्र-धन्वा सायं त्रि-धामा अवतु माधवः माम् ।
दोषे हृषीकेशः उत अर्ध-रात्रे निशीथे एकः अवतु पद्मनाभः ॥ २१॥
श्रीवत्स-लक्ष्मा अपर-रात्रे ईशः प्रत्यूषे ईशः असि-धरः जनार्दनः ।
दामोदरः अव्यात् अनु-सन्ध्यं प्रभाते विष्णुः श्रीमान् भगवान् काल-मूर्तिः ॥ २२॥
चक्रं युग-अन्त-अनल-तिग्म-नेमि भ्रमत् समन्तात् भगवत्-प्रयुक्तम् ।
दन्दग्धि दन्दग्धि अरि-सैन्यम् आशु कक्षं यथा वायु-सखः हुताशः ॥ २३॥
गदे अशनि-स्पर्शन-विस्फुलिङ्गे निष्पिण्डि निष्पिण्डि अजित-प्रिया असि ।
कूष्माण्ड-वैनायक-यक्ष-रक्षो-भूत-ग्रहान् चूर्णय चूर्णय अरीन् ॥ २४॥
त्वं यातुधान-प्रमथ-प्रेत-मातृ-पिशाच-विप्र-ग्रह-घोर-दृष्टीन् ।
दरेन्द्र विद्रावय कृष्ण-पूरितः भीम-स्वनः अरेः हृदयानि कम्पयन् ॥ २५॥
त्वं तिग्म-धार-असि-वर-अरि-सैन्यम् ईश-प्रयुक्तः मम छिन्धि छिन्धि ।
चक्षूंषि चर्मन् शत-चन्द्र छादय द्विषाम् अघानां हर पाप-चक्षुषाम् ॥ २६॥
यत् नः भयम् ग्रहेभ्यः अभूत् केतुभ्यः नृभ्यः एव च ।
सरीसृपेभ्यः दंष्ट्रिभ्यः भूतेभ्यः अघेभ्यः एव च ॥ २७॥
सर्वाणि एतानि भगवन्-नाम-रूप-अस्त्र-कीर्तनात् ।
प्रयान्तु संक्षयं सद्यः ये नः श्रेयः-प्रतीपकाः ॥ २८॥
गरुडः भगवान् स्तोत्र-स्तोमः छन्दो-मयः प्रभुः ।
रक्षतु अशेष-कृच्छ्रेभ्यः विष्वक्सेनः स्व-नामभिः ॥ २९॥
सर्व-आपद्भ्यः हरेः नाम-रूप-यान-आयुधानि नः ।
बुद्धि-इन्द्रिय-मनः-प्राणान् पान्तु पार्षद-भूषणाः ॥ ३०॥
यथा हि भगवान् एव वस्तुतः सत्-असत् च यत् ।
सत्येन अनेन नः सर्वे यान्तु नाशम् उपद्रवाः ॥ ३१॥
यथा एक-आत्म्य-अनुभावानां विकल्प-रहितः स्वयम् ।
भूषण-आयुध-लिङ्ग-आख्याः धत्ते शक्तीः स्व-मायया ॥ ३२॥
तेन एव सत्य-मानेन सर्व-ज्ञः भगवान् हरिः ।
पातु सर्वैः स्वरूपैः नः सदा सर्वत्र सर्व-गः ॥ ३३॥
वि-दिक्षु दिक्षु ऊर्ध्वम् अधः समन्तात् अन्तः बहिः भगवान् नारसिंहः ।
प्रहापयन् लोक-भयं स्वनेन स्व-तेजसा ग्रस्त-समस्त-तेजाः ॥ ३४॥
विश्वरूप उवाच
मघवन् इदम् आख्यातं वर्म नारायण-आत्मकम् ।
विजेष्यसे अञ्जसा येन दंशितः असुर-यूथपान् ॥ ३५॥
एतत् धारयमाणः तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥ ३६॥
न कुतश्चित् भयम् तस्य विद्यां धारयतः भवेत् ।
राज-दस्यु-ग्रह-आदिभ्यः व्याधि-आदिभ्यः च कर्हिचित् ॥ ३७॥
इमां विद्यां पुरा कश्चित् कौशिकः धारयन् द्विजः ।
योग-धारणया स्व-अङ्गं जहौ स मरु-धन्वनि ॥ ३८॥
तस्य उपरि विमानेन गन्धर्व-पतिः एकदा ।
ययौ चित्ररथः स्त्रीभिः वृतः यत्र द्विज-क्षयः ॥ ३९॥
स-अङ्गनः न्यपतत् सद्यः स-विमानः हि अवाक्-शिराः ।
विद्याम् इमां धारयतः मृतस्य अस्थि-विलङ्घनात् ॥ ४०॥
स वालखिल्य-वचनात् अस्थीनि आदाय विस्मितः ।
प्रास्य प्राची-सरस्वत्यां स्नात्वा धाम स्वम् अन्वगात् ॥ ४१॥
यः इदं शृणुयात् काले यः धारयति च आदृतः ।
तं नमस्यन्ति भूतानि मुच्यते सर्वतः भयात् ॥ ४२॥
श्री-शुक उवाच
एतां विद्यां अधिगतः विश्वरूपात् शत-क्रतुः ।
त्रैलोक्य-लक्ष्मीं बुभुजे विनिर्जित्य मृधे असुरान् ॥ ४३॥
॥ इति श्रीमद्-भागवत-महा-पुराणे षष्ठ-स्कन्धे अष्टमे अध्याये नारायण-वर्मः ॥
/Raghunath Rao/ “Do your Best … and leave the Rest … “
(All mistakes mine – all credit to Gurus and Acharyas )
|| sarvaṁ śrī kṛṣṇārpanamastu ||
