हरि सर्वोत्तम । वायु जीवोत्तम | श्री गुरुभ्यो नमः
अधिक मास नित्य पठनीय श्लोक
गोवर्धनधरं वन्दे गोपालं गोपरूपिणं । गोकुलोत्सवं ईशानं गोविन्दं गोपिकाप्रियं ॥
पुरुषोत्तम अर्घ्य
देवदेव जगन्नाथ पुराण पुरुषोत्तम गृहाण अर्घ्यं राधया सहितो हरे
पुरुषोत्तमयोगः
श्रीभगवानुवाच
ऊर्ध्वमूलम्-अधःशाखम्-अश्वत्थं प्राहुरव्ययम् ।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१५-१॥
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ऽधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥१५-२॥
न रूपमस्येह तथोपलभ्यत् नान्तो न चादिर्न च सम्प्रतिष्ठा । अश्वत्थमेनं सुविरूढमूलं असङ्गशस्त्रेण दृढेन छित्त्वा ॥१५-३॥
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये । यतः प्रवृत्तिः प्रसृता पुराणी ॥१५-४॥
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्-गच्छन्त्यमूढाः पदमव्ययं तत् ॥१५-५॥
न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥१५-६॥
ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥१५-७॥
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥१५-८॥
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥१५-९॥
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१५-१०॥
यतन्तो योगिनश्चैनं पश्यन्त्य्-आत्मन्यवस्थितम् ।यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥१५-११॥
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥१५-१२॥
गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१५-१३॥
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१५-१४॥
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनञ्च ।वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥१५-१५॥
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।क्षरः सर्वाणि भूतानि कूटस्थो। अक्षर उच्यते ॥१५-१६॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥१५-१७॥
यस्मात्क्षरमतीतो अहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१५-१८॥
यो मामेवम् असम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥१५-१९॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान्स्यात्-कृताकृत्यश्च भारत ॥१५-२०॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः
श्रीपुरुषोत्तम स्तोत्रं
वन्दे वन्दारुमन्दारं वृन्दावन विनोदिनं । वृन्दावन कलानाथं पुरुषोतम्ममद्भुतं॥
श्री विष्णुरुवाच
वन्दे विष्णुं गुणातीतं गोविन्दमेकमक्षरं । अव्यत्कमव्ययं व्यक्तं गोपवेष विधायिनं॥
किशोरवयसं शान्तं गोपीकान्तं मनोहरं । नवीनवीरदश्यामं कोटिकन्दर्पसुन्दरं ॥
वृन्दावनवनाभ्यान्ते रासमण्डलसम्स्थितं । लसत्पीतपटं सौम्यं त्रिभंगललिताकॄतं ॥
रासेशवरं रासवासं रासोल्लास ससमुत्सुखं । द्विभुजं मुरलीहस्तं पीतवाससमच्युतम् ॥
इत्येवमुक्त्वा तं नत्वा रत्नसिम्हासने वरे । पार्षतैः सत्कृतो विष्णुः स उवास तदाज्ञया॥
श्री नारयण उवाच
इति विष्णुकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् । पापानि तस्य नश्यन्ति दुस्स्वप्नः सत्वलप्रदः ॥
भक्तिर्भवति गोविन्दे पुत्रपौत्रविवर्धनि । अकीर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्धते चिरं ॥
यम उवाच
नमस्ते भगवन् देव लोकनाथ जगत्पते । क्षीरोदवासिनं देवं शेषभोगानुशायिनम् ॥४५-६०॥
वरं वरेण्यं वरदं कर्तारमकृतं प्रभुम् ।विश्वेश्वरमजं विष्णुं सर्वज्ञमपराजितम् ॥४५-६१॥
नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम् । सर्वज्ञं निर्गुणं शान्तं जगद्धातारमव्ययम् ॥४५-६२॥
सर्वलोकविधातारं सर्वलोकसुखावहम् । पुराणं पुरुषं वेद्यं व्यक्ताव्यक्तं सनातनम् ॥४५-६३॥
परावराणां स्रष्टारं लोकनाथं जगद्गुरुम् ।श्रीवत्सोरस्क-संयुक्तं वनमालाविभूषितम् ॥४५-६४॥
पीतवस्त्रं चतुर्बाहुं शङ्ख-चक्रगदाधरम् । हारकेयूर-संयुक्तं मुकुटाङ्गदधारिणम् ॥४५-६५॥
सर्वलक्षणसम्पूर्णं सर्वेन्द्रियविवर्जितम् । कूटस्थमचलं सूक्ष्मं ज्योतिरूपं सनातनम् ॥४५-६६॥
भाव-अभावविनिर्मुक्तं व्यापिनं प्रकृतेः परं । नमस्यामि जगन्नाथम्-ईश्वरं सुखदं प्रभुं ॥४५-६७॥
इत्येवं धर्मराजस्तु पुरा न्यग्रोधसन्निधौ । स्तुत्वा नानाविधैः स्तोत्रैः प्रणामम्-अकरोत् तदा॥४५-६८॥
इति ब्रह्मपुराणे यमकृत पुरुषोत्तम स्तोत्रं
अपूपदान काल चिन्तनीय भगवद्रूपाः
विष्णुं जिष्णुं महाविष्णुं हरिं कृष्णं अधोक्षजं । केशवं माधवं रामं अच्युतं पुरुषोत्तमं ॥
गोविन्दं वामनं श्रीशं श्रीकण्ठं विश्वसाक्षिणं । नारयणं मधुरिपुं अनिरुद्धं त्रिविक्रमं ॥
वासुदेवं जगद्योनिं अनन्तं शेशशायिनं सन्कर्षणं च प्रद्युम्नं दैत्यारि विश्वतोमुखं ॥
जनार्दनं धरावासं दामोदरं अघार्दनं । श्रीपतिं च त्रयस्त्रिम्शत् उद्दिश्य प्रतिनामभिः ॥
मन्त्रैर् एतैश्च यो दद्यात् त्रयस्त्रिम्शत् अपूपकं । प्राप्नोति विपुलां लक्ष्मीं पुत्रपौत्रादि सन्ततिं ॥
पुरुषोत्तम मास त्रयत्रिंशत् देवता भगवद्रूपाः
(तद्तद् रूप अन्तर्गत भारति रमण मुख्यप्राणन्तर्गत भगवद्रूपम् नमस्कृत्य)
१-८: अष्ठ वसु: द्रोण (विष्णु), प्राण (जिष्णु), ध्रुव (महाविष्णु), अर्क (हरि), अग्नि (कृष्ण), दोष (अधोक्षज), वसु (केशव), विभावसु (माधव)
९-१९: एकादश रुद्र: रैवत (राम), ओज (अच्युत), भव (पुरुषोत्तम), भीम (गोविन्द), वामदेव (वामन), उग्र (श्रीश), वृशाकपि (श्रीकण्ठ), अजैकपात् (विश्वसक्षिन्), अहीर्बुध्नि (नारयण), विरूपाक्ष (मधुरिपु), उमापति (अनिरुद्ध)
२०-३१: द्वादश आदित्य: विवस्वान् (त्रिविक्रम), आर्यमन्। (वासुदेव), पूषन्। (जगद्योनि), त्वष्ट्र (अनन्त), सवितृ (शेशशायिन्), भग (सन्कर्षण), धातृ (प्रद्युम्न), पर्जन्य (दैत्यारि), वरुण (विश्वतोमुख), मित्र (जनार्दन), शक्र (धरावास), उरुक्रम (दामोदर)
३२: प्रजापति (अघार्दन)
३३: वषट्कार (श्रीपति)
सर्वं श्री कृष्णार्पणं अस्तु
/Raghunath Rao/ “Do your Best and leave the Rest “
(All mistakes mine – all credit to references, pravachanas and online material)
|| sarvaṁ śrī kṛṣṇārpanamastu ||