Oct 8th:
Oct 3rd:
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो ग्रन्थम् उदीरयेत् ॥
नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियति प्रदाय ।
ज्ञानप्रदाय विबुधासुर सौख्यदुःख सत्कारणय वितताय नमो नमस्ते ॥
रामाय शाश्वत सुविस्तृत षड्गुणाय
सर्वेश्वराय बलवीर्यमहार्णवाय।
नत्वा लिलङ्घयिषुरर्णवमुत्पपात
निष्पीड्य तं गिरिवरं पवनस्य सूनुः || 1 ||